Research Article
Ph.D. Research Scholar , Department of Sanskrit, Sardar Patel University, Vallabhvidyanagar, Gujarat, India
Submitted: 15-07-2025
Accepted: 31-07-2025
Published: 15-08-2025
Pages: 486-490
विश्वस्मिन् अस्मदीया भारतीयकालगणना अतीव प्राचीना वैज्ञानिकी सूक्ष्मतमा वर्तते । भारतीयकालगणनैव सूर्यचन्द्रमसोर्गत्यनुसारं प्रचलति । तेन कारणेनास्माकं सर्वेप्युत्सवा नियतकाल एव आयान्ति । भारतीयकालपरिमाणस्य सूक्ष्मतमः कालः परमाणुर्वर्तते तथा बृहत्तमकालो ब्राह्मदिनं विद्यते । तत्र बहूनि परिमाणानि सन्ति, तानि यथा – परमाणु-अणु-पल-विपल-प्रतिपल-निमेष-क्षण-घटी-होरा-प्रहर-अहोरात्र-सप्ताह-पक्ष-मास-अयन-संवत्सर-ब्राह्मदिनादीनि । एषु परिमाणेष्वन्यतस्य होरापरिमाणस्य विज्ञानं प्रस्तूयते । होरा इति शब्दस्य कोर्थः ?, अस्मिन् शब्दे किं संपूर्णे लिङ्गम् ? का च व्युत्पत्तिः ? इति प्रश्नाः सहजतया जायन्ते । तर्हि अग्निपुराणे उक्तं यथा – चतुर्विंशतिवेलाभिरहोरात्रं प्रचक्षते । पश्चिमादर्द्धसत्रादि होराणां विद्यते क्रमः ।। राश्यर्द्धभागो होरानाम्ना विज्ञायते । असौ शब्दः स्त्रीलिङ्गे वर्तते । हुडृ – गतौ धातोः रन् प्रत्यये कृते होराशब्दो निष्पद्यते । सामान्यतः प्रत्येकस्मिन् दिवसे चतुर्विंशतिहोराः भवन्ति । तत्र यस्य ग्रहस्य प्रथमा होरा भवति, तद्दिनमपि तद्ग्रहनाम्ना ज्ञायते । इत्थमस्माकं सूर्यादिवासराणां नामाभिधानं तथा क्रमनिर्धारणं जायते । तत्र होराणां विशिष्टः क्रमो वर्तते, सूर्यः शुक्रः बुधः चन्द्रः शनिः गुरुः मङ्गलः । अनेन क्रमेण सम्पूर्णस्य होराचक्रस्य निर्माणं भवति । यथा जैनधर्मे यात्रायाः प्राक् चोघडीयादर्शनं भवति तथैव मुहूर्त्ताभावे माङ्गलिककार्येषु, विद्यारम्भे, विवाहे, नूतनयन्त्रक्रयणे, भूमिक्रयणे इत्यादिषु विविधेषु कार्येषु होरायाः उपयोगिता वर्तते । अनेन प्रकारेण निश्चितग्रहस्य नियतहोरायां कार्यं क्रियते चेदवश्यं तत्तत्कार्येषु सिद्धिः प्राप्यते । एतादृग् विज्ञानमस्माकं भारतीयज्ञानपरम्परायां निहितं वर्तते ।